Posts

अमेरिकायां भारतीयानां विवाहः

  सा - आगच्छतु । अल्पाहारं स्वीकरोतु । उत्पीठिकायां सर्वं परिवेषितवती अहम् ।  अहम् - अस्तु । भवती न खादति किम् ?  सा - न । अहं विवाहं पश्यामि इदानीम् । अहम् - विवाहः ? कस्य विवाहः ? कुत्र ? सा - कति वारम् उक्तवती अहम् । भवान् न श्रुणोति एव मम वाक्यानि । अमेरिकादेशे अट्लाण्टानगरे मम बन्धोः विवाहः अस्ति । तं विवाहं द्रष्टुं मम अग्रजा अनुजा च गतवत्यौ इति अपि अहं पूर्वम् एव उक्तवती किल ? किमर्थं पुनः पृच्छति माम् ? अहम् - आम् । इदानीं स्मरामि । सम्यक् । दर्शयतु चित्राणि । अहम् अपि द्रष्टुम् इच्छामि । किम् साक्षात् प्रसारः एव अस्ति विवाहस्य ? अत्युत्तमम् । सा - पश्यतु । एषा अस्ति वधूः । सः वरः । अहम् - सुन्दरी अस्ति । किं करोति सा ? सा - वैद्या अस्ति । वरः अपि वैद्यः । एतौ वध्वाः पितरौ । तौ वरस्य पितरौ । आ बहोः कालात् अमेरिकादेशे स्थिरवासं कुर्वन्ति ते । अहम् - वरः अपि सुन्दरः । अस्माकम् आन्ध्रदेशसंप्रदायम् अनुसृत्य विवाहकार्यक्रमः प्रचलति खलु । पुरोहिताः वेदमन्त्रान् स्पष्टं उच्चारयन्ति । मङ्गलवाद्यानि अपि सन्ति ।  सा - आम् ! विवाहे तु सर्वत्र भारतदेशस्य वातावरणम् एव अस्ति । वध्वाः शाटिका

यस्य यस्मिन् रमते चित्तम्

  अमुकः जनः अमुकं कार्यं किमर्थं करोति इति प्रश्नस्य उत्तरं भवति यस्य यस्मिन् रमते चित्तं सः तत् करोति इति । लोकः भिन्नरुचिः । बालः तावत् क्रीडासक्तः तरुणस्तावत् तरुणीसक्तः वृद्धस्तावत् चिन्तासक्तः इति श्रीमच्छङ्करभगवत्पादः उक्तवान् । यस्य चित्तं परे ब्रह्मणि रमते नन्दति नन्दति नन्दत्येव इत्यपि तस्मिन्नेव स्तोत्रे अब्रवीत्  भगवत्पादः । भवान् किमर्थं संस्कृतं पठति इति बहवः मां पृच्छन्ति । तस्मिन् मम चित्तं रमते इति एतावत् एव उत्तरं वदामि अहम् । मम बाल्यकालस्य स्निग्धं मित्रं सर्वं त्यक्त्वा कृष्णचैतन्यसंस्थायां सेवां करोति इदानीम् । महत् ऐश्वर्यं , भार्याम् अपि च त्यक्तवान् सः । कस्मात् अकस्मात् एतावत् परिवर्तनम् अभवत् तस्य जीवने ? को वा जानाति एतादृशानां प्रश्नानाम् उत्तराणि । नवकोटिनारायणः इति प्रसिद्धः कश्चन वणिग्जनः अकस्मात् सर्वम् ऐश्वर्यं त्यक्त्वा सङ्गीतपितामहः पुरन्दरदासः अभवत् । अतः सर्वं दैवाधीनम् । तथैव मम मित्रस्य जीवने अपि अकस्मात् परिवर्तनम् अभवत् । सः ग्रामेषु अटित्वा कृष्णस्य कार्यं करोति प्रतिदिनम् । गतेषु षट्सु मासेषु आन्ध्रप्रदेशस्य अमलापुरग्रामे वासम् अकरोत्  सः । तत

महाटनवीरव्रतिनः हयपर्वतपरिव्राजकाः

  *महाटनवीरव्रतिनः हयपर्वतपरिव्राजकाः* -Marathon monks of Mount Hiei *महाटनम् इति असिधाराव्रतम्* मितसोमः इति कश्चन श्रमणः । हयो नामकः कश्चन पर्वतः । जपानदेशस्य ईशान्यपर्वतश्रेणिषु अस्ति अयं हयपर्वतः । तेण्डा इति बौद्धशाखायाः श्रमणानां विहारः अस्ति हयगिरौ |  तस्मिन् बौद्धाश्रमे मितसोमः भिक्षुः अस्ति ।   श्वः मितसोमस्य महाटनव्रतस्य प्रारम्भः । सप्तवर्षात्मकं महाटनम् ।  महाटनं नाम महत् च तत् अटनम् । नैतत् धावनं । न वा सामान्यः वनविहारः । हयपर्वतस्य परिव्रजनम् । चत्वारिंशत्किलोमीटरमितं परिक्रमणस्य दैर्घ्यम् । मध्यरात्रौ सार्धैकवादने कवलमितम् अल्पाहारं सेवित्वा श्वेतवस्त्राणि धृत्वा शिरसि त्राणं बद्ध्वा हस्तेन पटदीपं गृहीत्वा आश्रामत् निष्क्रमते मितसोमः । आश्रमः शिखरस्य उपरि अस्ति । आश्रमं परितः घोरम् अरण्यम् । महारण्ये महाटनम् । सर्वत्र घोरः अन्धकारः । अरण्यमध्यं मार्गम् उभयतः उन्नतवृक्षशाखानां वितानम् । झिल्लिकानां तारस्वरघोषः सर्वतः प्रतिध्वनति । मितसोमः भ्रमरवत् मन्द्रं मन्त्रं जपन् अग्रे गच्छति । मार्गस्य पुरतः संलग्ना तस्य दृष्टिः , शिरः निश्चलम् , ऋजुः मेरुदण्डः । पार्ष्णिभ्यां भूमिं

प्रिया द्विचक्रिका

  *प्रिया द्विचक्रिका* मम अपि काचित् सहधर्मचारिणी द्विचक्रिका आसीत् । प्रियतमा प्राचीनतमा च । पुरा मम पित्रा चालिता सा । ततः मम भ्रात्रा सर्वत्र नीता । मया महाविद्यालये प्रवेशे प्राप्ते सा अपि मया सह प्रेषिता रेलयानेन । नूतनवधूवरौ इव छात्रावासं प्रविष्टवन्तौ आवाम् । सद्यः तारुण्यं प्रविष्टवतः मम वयः सप्तदश । मम द्विचक्रिका मत्तः पञ्चदशभिः वर्षैः ज्यायसी । तत्र मया सह प्रविष्टवतां नूतनच्छात्राणां द्विचक्रिकाः तु यौवनेन शोभमानाः सुन्दराङ्गनाः इव आसन् । किमर्थं नूतना द्विचक्रिका न क्रीता मम कृते पित्रा इति प्रश्नः उदितः मम मनसि । किन्तु पित्रे कष्टं दातुम् अनिच्छन् अहं कथञ्चित् जीर्णया मृतप्रायया द्विचक्रिकया दाम्पत्यजीवनम् आरब्धवान् ।  “यद्यपि पुरातनी एषा द्विचक्रिका तथापि बहवः गुणाः सन्ति अस्याम् । संरक्षणं कुरु एतस्याः । मम उद्योगकाले बहुप्रयोजनकरी आसीत् एषा । बहुत्र अटितम् एतस्याः साहचर्येण । भवतः अपि महते उपयोगाय भवति ” इति अवदत् मम पिता आप्रच्छनसमये ।  प्रतिदिनं वयं सर्वे अन्तेवासिनः छात्रावासतः द्विचक्रिकाभिः विद्यालयं प्रति समूहशः गच्छामः स्म । सर्वे द्रुतगत्या निःशब्दम् अग्रे गच्

मूर्खस्य नास्त्यौषधम्

  *मूर्खस्य नास्त्यौषधम्* अस्माकं गृहसमुदायस्य व्हाट्सेप-गणस्य किञ्चन संभाषणम् संस्कृतेन अनूद्यते । अम्बरः - चित्रमिदं पश्यन्तु सर्वे । अद्य एव मया गृहीतम् । ओलिव्-भवनस्य छदस्य उपरि वेणुभिः पटमण्डपः निर्मितः। स्थलमिदं सामान्यस्थलम् । अस्माकं सर्वेषाम् अधिकारः अस्ति अस्मिन् स्थले । किमर्थं तर्हि अनुमतिं विना निर्माणं कृतम्  ? कुम्भेषु सस्यानि रोहयन्तः सन्ति एते जनाः । बालकानां कृते कूर्दकजालम् (trampoline) अपि स्थापितम् अस्ति अत्र । अन्याय्यम् एतत् सर्वम् । नानुमन्यते मया गृहात् बहिः एतादृशं निर्माणम् । आरती - इदमस्माभिरेव कृतम् । चिन्ता न कार्या । बालानां विनोदाय । अन्ये बालकाः अपि अत्र आगत्य क्रीडितुम् अर्हन्ति । अम्बरः - किमिदं वैचित्र्यम् ? अनुमतिम् अप्राप्य निर्माणम् ? तदपि गृहसमुदायस्थले यत्र भवताम् अधिकारो नास्ति । प्रश्ने पृष्टे सति सर्वेषां कृते इति उत्तरम् ?  इदम् नैवोपपद्यते । मया इदं सर्वात्मना नाङ्गीक्रियते । कुम्भान्, कूर्दनजालं, पटमण्डपं च अपसारयतु भवती । इदं नियमविरुद्धम् । आरती - के ते नियमाः ? बालानां विनोदाय इति उक्तं किल ? तेन तव का समस्या ? नैतत् मम कृते । सर्वेषां

*भाषापाकः*

  *भाषापाकः* संस्कृतं कदाचित् सर्वेषां जनानां भाषितभाषा आसीत् इति निरूपयितुं  किञ्चन प्रयतनम् । *शैशवम्* अस्माकं गृहस्य उभयपार्श्वस्थयोः गृहयोः नवजातौ शिशू स्तः ।  दक्षिणपार्श्ववर्तिनां मासमात्रवयस्कं स्त्र्यपत्यम् अस्ति । नामकरणमपि न कृतम् । प्रसवस्य मासात् पूर्वं पितरौ कोरोणावैराणुना समाक्रान्तौ । दैवात् द्वावपि समये रोगमुक्तौ अभवताम् ।   प्रसूतेः समनन्तरं नवजातशिशोः पितामही अपि ग्रामात् समागता । पितामह्या सह काचित् धात्री अपि आगतवती । वामपार्श्ववर्तिनां पुमपत्यम् । अस्माकं गृहस्य अधोवासिनां अपि पुंशिशुः । तदा तदा कार्यप्रकोष्ठे कार्यं कुर्वन्नहं त्रयाणाम् अपि शिशूनां युगपत् रोदनं शृणोमि । अधोवर्तिशिशुः  षड्भ्यः मासेभ्यः ज्यायान् अस्ति पार्श्ववर्तिनोः शिश्वोः अपेक्षया । स तु आदिनं शब्दायते । अकारस्य एव निरन्तरम् उच्चारणं करोति । कदाचित् ह्रस्वत्वेन, कदाचित् दीर्घत्वेन, अन्यदा स्वरितोदात्तानुदात्तैः सह प्लुतात् दशगुणितं दीर्घं निमेषान् यावत्  - “अ, आ, ऑ, अँ, आँ, आआआआआँ” इति अव्यवधानतया उच्चारयति ! किमर्थं स्वराणाम् अष्टादशरूपाणि एव निरूपितानि भगवता पाणिनिना इति शङ्का मम इदानीम् ! घ्रा

*बालस् तावत् क्रीडासक्तः*

  *बालस् तावत् क्रीडासक्तः* बाल्यकाले अहं बहु खेलामि स्म । ग्रीष्मविरामकाले आदिनं बहिः क्रिकेट्क्रीडां खेलामि स्म मित्रैः सह । कदाचित् हैदराबादनगरे आतपः उग्रः भवति स्म । प्रचण्डतापयुक्तः वायुः वहति स्म मध्याह्नकाले । मध्याह्नसूर्येण प्रतप्तं गृहम् अग्निकुण्डम् भूत्वा अस्मान् दहति स्म । गृहस्य सर्वाणि वातायनानि पिधाय व्यजनं चालयित्वा सर्वे स्वपन्ति स्म मध्याह्नतः सायाह्नस्य पञ्चवादनपर्यन्तम् । अहं तु मित्रवृन्देन सह  खेलितुम् इच्छामि स्म । प्रातःकाले दध्योधनम् आम्ररसेन सह भुक्त्वा गृहात् बहिः धावामि स्म । मध्याह्नभोजनकालपर्यन्तं क्रीडित्वा गृहम् आगत्य अम्बायाः नित्यतर्जनं अपि समास्वाद्य भोजनं करोमि स्म । भोजनस्य समनन्तरम् एव गृहात् निष्क्रमणं तु मम असाध्यम् आसीत् । “त्रिवादनपर्यन्तं किञ्चित् निद्रां न करोति चेत् अद्य भवान् बहिः गन्तुं न शक्नोति ” इति अम्बा वदति स्म  । अथः कथञ्चित् स्वप्तुं प्रयत्नं करोमि स्म । त्रिवादनं कदा भविष्यति इति घटीं निर्निमेषं पश्यामि स्म । द्विवादनतः शब्दान् कृत्वा सर्वेषां निद्राभङ्गं करोमि स्म । “ईषत् अपि स्थिरता नास्ति त्वयि । किमपि पुस्तकं पठ । अग्रिमकक्ष्